॥ ॐ श्री गणपतये नमः ॥

द्वयोर्वणिजोर्ज्यायाधिपतेश्च कथामण्डिकल् रामशास्त्री
यः परस्य विषमं विचिन्तयेत्प्राप्नुयात्स कुमतिस्स्वयं हि तत्।पाण्डवेष्वनलदः पुरोचनो दद्यते स्म जतुसद्मनि स्वयं॥

अवन्तीपुरे सुबुद्धिदुर्बुद्धिनामानौ द्वौ वणिजावास्तां। तौ देशान्तरे बहुधनं सम्पाद्यागत्य कस्यचित्तिन्त्रिणीतरोः अधस्ताद्भूमौ तत् गोपयामासतुः। कदाचिद्दुर्बुद्धिर्मूढमागत्य तदखिलं जहार। अपरेद्युर्धनं गृण्हीव इति स सुबुद्धिमानीय तां भुवं चखान, तत्र धनाभावात् सुबुद्धिं गृहीत्वा त्वमेव मामवञ्चयथाः मदीयं धनमर्पय, इति तं निर्बबन्ध। तयोः कलहः न्यायाधिपतिनाप्यश्रावि। स प्राड्विवाकः दुर्बुद्धिं प्रति त्वं सुबुद्धिरेव धनमखिलमपाहरदिति वदसि किल, तत्रकस्साक्षीति पप्रच्छ। दुर्बुद्धिस्तु स तिन्त्रिणीतरुरेवेत्युत्तरयति स्म। एतत्तत्त्वजिज्ञासया न्यायाधिपतिस्तिन्त्रिणीतरुमासाद्य अनयोर्विषये किं जानासीति तमपृच्छत्। तावदेव दुर्बुद्धिः स्वपितरं तत्कोटरे उपवेश्य सुबुद्धिरेव धनमपाहार्षीदिति प्रत्युत्तरं दापयामास। ततस्सोधिकारी सञ्चिन्त्य तत्कोटरे किञ्चित्तृणं प्रज्वाल्य धूममुत्थापयति स्म। तदा निर्बद्धश्वासः स्थविरः बहिर्निपत्य ममार। न्यायाधिपतिः दुर्बुद्धिं वञ्चकं मत्वा धनमखिलं सुबुद्धये दापयित्वा दुर्बुद्धिसादण्डयत्। दुर्बुद्धिस्तु धनं पितरं च नाशयित्वा दुःखभाजनमासीत्। तस्माज्जनः अन्यं वञ्चयितुं प्रवृत्तश्चेत्स्वयमेव नश्यति।


संस्कृतकथासप्ततिः. 1914. p 40CC0. No rights reserved