चन्नपत्तने कश्चिद्धौणप्रभुरासीत्। तस्य हौणभाषां विना इतरभाषासु स्वल्पोपि परिचयः नाभवत्। तस्माद्वहुभाषावेदिनमेकं पुरुषं स्वगृहकृत्यविचारणाय सः न्ययोजयत्। कदाचित् दण्डनटाः तत्प्रभुसमीपमागत्य नटनदण्डं निखाय स्वविद्याशक्तिं सर्वामपि दर्शयामासुः। ततस्स प्रभुः नितरां सन्तुष्य तमधिकारिणमाहूय एभ्यः दश निष्कान् देहीत्याज्ञापयामास। स तान् स्वगृहं नीत्वा एकं निष्कं दत्त्वा गच्छतेत्यब्रवीत्। वयमतितरामायस्याखेलाम इयदेव दत्तमिति ते खिद्यमानास्सन्तः अयमधिकारी अस्मानवञ्चयतेत्यालोच्य तं प्रभुमासाद्य एतावदेव दत्तमिति दीनारमददर्शन्। प्रभुस्तद्भाषानभिज्ञतया तमेवाधिकारिणमाहूय किमेते कथयन्तीत्यप्राक्षीत्। स तं प्रभुमालोक्य स्वामिन् एभिस्सेवकेन दत्तेषु इदमेकमसमीचीनम्। एतत् गृहीत्वा अपरं दापयतेति विज्ञापयन्तीत्यकथयत्। तच्छ्रुत्वा प्रभुः कुपितस्सन् तान् ताडयित्वा प्रेषयामास। तस्मान्निवासदेशभाषानभिज्ञाश्चेत् प्रभवः एवमितरवचनं विश्वस्य अन्यायभाजनानि भवेयुः।