॥ ॐ श्री गणपतये नमः ॥

कपितत्प्रतिबिम्बयोः कथामण्डिकल् रामशास्त्री
परस्वहरणेच्छादि स्वीयमर्थं विलुम्पति।दुराशया कपिः कोपि लब्धं फलमनाशयत्॥

कश्चिद्वानरः कूपसमीपे उपविश्य आम्रफलमदन् आनम्य कूपस्य अन्तर्भागमालोक्य जले स्वप्रतिबिम्बमपश्यत्। तन्निरीक्ष्य अन्तरन्यः कोपि कपिः चूतफलमत्ति, तं सन्तर्ज्य तत्फलमपहर्तुमैच्छत्। तदा स कपिः भीत इव तेन वदने स्थितं तत्फलं कूपे पतित्वा ममज्ज। ततः कपिरतीवाखिद्यत। तस्मात्परस्वमपेक्ष्यते चेत् स्वद्रव्यमेव नश्यति॥


संस्कृतकथासप्ततिः. 1914. p 6CC0. No rights reserved