कर्णाटदेशे अतिलुब्धमहालब्धनामानौ द्वावप्यविद्येताम्। तावतिलुब्धेन च द्वाभ्यामभावि। अतिलुब्धः परान्नेनैव जीवन्कदाचिन्मध्याह्नसमये महालुब्धगृहमयासीत्। महालुब्धस्त्वागतमतिथिं मधुरमधुरैर्वचनैस्सॅल्लप्य शुष्कोपचारैरेवाऽनन्दयामास। ततस्तेन सह विपणिं गत्वा तत्र कस्मिश्चिदापणे समीचीना अपूपास्सन्ति किमिति पप्रच्छ। स वणिगार्य, नवनीतवन्मृदुलास्सन्ति, पश्येत्याचख्यौ। तच्छ्रुत्वा महालुब्धः अतिथे, तर्हि नवनीतमेव वरं, तदेव गृह्णीवेत्युक्त्वा नवनीतनिषद्यामासाद्य समीचीनमस्तिवेत्यपृच्छत्, स आपणिकः तैलवत्सस्नेहं सद्धर्तते, इत्याहस्म, अयन्तु तर्हि तैलमेव वरमित्युक्त्वा तैलापणमेत्य पूर्ववत्पप्रच्छ। तत्रत्यस्तैलं जलमिव स्वच्छं वर्तते, पश्येत्यदर्शयत्, स तच्छ्रुत्वा तर्हि जलमेव सर्वोत्तममिति सिद्धान्तयित्वा अतिथिं स्वभवनमुपनीय इदमेव सर्वोत्तमं गृहाणेति निगद्य जलमेव प्रादात्। अतिलुब्धस्तु अन्नालाभेपि इयं विद्या सम्यगभ्यस्तप्राया अभूत्, अयमेव परमो लाभ इति मत्वा जगाम। तस्मात्कृपणाः येनकेनाप्युपायेन अव्ययमार्गानेव चिन्तयन्ति।