॥ ॐ श्री गणपतये नमः ॥

मार्जारजम्बुकयोः कथामण्डिकल् रामशास्त्री
विद्या कालोचिता ज्ञेया सापायात्परिरक्षति।पयःप्लवनवेद्यप्सु पतित्वापि च तास्तरेत्॥

कस्मिश्चिद्दिवसे मार्जारः क्रोष्टा चैकत्र मिलित्वा संल्लपन्तावास्ताम्। तदा क्रोष्टा मार्जारं दृष्ट्वा अये बिडाल, तव काचिदापदायास्यति चेत् तां परिहर्तुं कत्युपायान् जानासीत्यपृच्छत्। बिडालः अहमेकमेवोपायं जानामि, तेनैव आपतन्तीस्सर्वाश्चापदः तरामि, इत्यकथयत्। जम्बुकस्स्मित्वा, त्वया एतावदेव खलु ज्ञायते, अहं यावतः उपायान् जानामि त्वं तावतः उपायान् न जानासि, इत्यपहसति स्म। एवंस्थिते कुतश्चिन्मार्गाद्दिश्वकद्रवस्तत्र समाजग्मुः। तान् शुनकान्दृष्ट्वा मार्जारः झडिति तत्रस्थं कञ्चित् तरुमारुरोह। जम्बुकः वृक्षमारोढुमशक्नुवन् उपायान्तराभिज्ञोपि तैश्शुनकैः परितस्समाक्रान्तस्सन् अमृत। तस्माद्बहुविद्यावानपि कालोचितविद्यामजानन् एवं कष्टभाजनं भवति।


संस्कृतकथासप्ततिः. 1914. p 13CC0. No rights reserved