कस्यां चित्सरस्यां त्रयो मत्स्यास्सन्ति स्म। तेष्वेकः कुशलतमः कदाचित्स समालोच्य इतरौ प्रत्यवदत्। अयि सखायौ, शृणुतामदानीं ग्रीष्मर्तुस्समजनि, इतः परमेतत्पल्वलं निरापं भविष्यति, तस्मादिदानीमेव अशोष्यं हदं समुद्रं वा प्रविशाम, नोचेदस्माकमत्याहितं भवेदसंशयमिति। तदाकर्ण्य तौ कोयं बकबन्धनोपायः किमेवं वृथा सम्भावयसि, गच्छगच्छेति तं निराचक्रतुः। ततस्स कुशलो मत्स्यः प्रवाहमार्गमाश्रित्य वारिधिमविशत्, अन्यावत्रैवावसतां ततः क्रमेण सरसि शुष्कीभवति दाशास्समेत्य बडिशं प्रसार्य द्वावपि गृहीत्वा तटे निचिक्षिपुः, तदैकः मृतवदास्त। अन्यस्तु तत्रतत्र लुठति स्म। लुठन्तमालोक्य ते कैवर्तास्तं पाषाणोपरि निपात्य संहरन्ति स्म। अपरस्तु उपायेन जलं प्रविश्य कस्मिश्चित्कोटरे निलीयते स्म। तस्मादापतिष्यन्त्याः विपदः प्रतीकारं निपुणाः पूर्वमेव समालोचयन्ति। मध्यमास्तु आपतितानां विपदां तमालोचयन्ति। मन्दास्त्वनुभवन्त्येव।