कस्याञ्चित्पल्यामुभावर्भकावास्ताम्। तयोरेको मतिमान् अन्यस्त्वविवेकी, तयोरुभयोः कदाचित् किञ्चिदुद्यानमुपेयुषोस्सतोः तत्रैकं नालिकेरफलमलभ्यत। स बुद्धिमांस्तत्फलं भित्त्वा अन्तस्थं सर्वमपि स्वयमेव भक्षयित्वा पृथु तच्छुक्तिद्वयं तस्मै अविवेकिने ददौ, स ते शुक्ती शकलीकृत्य स्वमुखे न्यधात् तानि शकलानि पाषाणा इव कठिनान्यासन्। तस्मात्सः स्वसखस्स्वमवञ्चयतेति मत्वा मयाप्येष कदाचिद्वञ्चनीयः इत्यालोचयामास। कतिपयदिनानन्तरं ताभ्यामेकं चूतफलं प्रापि। तदा सोऽविवेकी तत्कृतायाः वञ्चनायाः प्रतीकारः कर्तव्य इत्यालोच्य तं बुद्धिमन्तमालोक्य मह्यमन्तस्थं दत्वा उपरिस्थितं त्वं भक्षयेत्यवदत्। सोऽतीव सन्तुष्य उपरिस्थितं सर्वमपि स्वयमेव भक्षयित्वा तस्मै अन्तस्थं बीजमेवादात्। तस्मात्पदार्थस्वरूपमजानानाः एवं वञ्च्यन्ते।