हस्तिनापुरे विलासनान्नो रजकस्य समीपे एकः गर्दभः अवर्तत। स पटभारान्वाहंवाहं निर्बलस्सन् उत्थातुमप्यशक्ततया पतनोन्मुखोऽवर्तत। तदा स रजकः तं व्याघ्राजिनेनाच्छाद्य उर्वरायामत्यजत्। तत्रस्थास्सर्वेपि तं दृष्ट्वा व्याघ्र इति भीत्वा पलायाम्बभूवुः। ततस्स्वल्पकालएव और्वरिकः आगत्य अस्य रीतिमालोक्य अयं न व्याघ्रायते तथापि परीक्षणीय इत्यालोच्य गर्दभचर्मवसानस्तं देशमाजगाम, सः रासभः तं दृष्ट्वा अयं स्वजातीय इति धिया विनदन्सन् तदन्तिकमनुधावति स्म। स तस्य शब्दं श्रुत्वा गर्दभ एवायमिति निश्चित्य दण्डेन ताडयित्वोत्सारयामास। तस्मात् मूढानां दुर्गुणाः अतिप्रयत्नेन आच्छादिता अपि स्वत एव प्रकटीभवन्ति।