पुरा कश्चिद्गायकः राजसन्मानापेक्षी सन् देशान्तरं गत्वा कस्यचिद्राज्ञः पुरे किञ्चिद्गृहस्थगृहमधिवसति स्म। तत्र प्रतिदिनमुषसि गायन्नासीत्, एवं स्थिते तत्प्रातिवेशिकी काचिद्रजकी तद्गानमाकर्ण्य तत्समकालमेव प्रतिदिनं रुदत्यासीत्। पञ्चषदिनानन्तरं स तामाहूय कुतो मद्गानसमकालमेव प्रतिदिनेऽपि रोदिषीति पप्रच्छ। सा तु दीर्घं निश्वस्य स्वामिन्किं ब्रवीमि ? निर्भाग्याहं कतिपयमासेभ्यः प्राक् रूप्यपञ्चकं दत्त्वा कञ्चित्खरमक्रैषं, स तावदेकमासात्पूर्वममृत, तदारभ्य तद्व्यसनाकुलाहमस्मि, श्रीमतां कलमधुरकण्ठस्वरे श्रूयमाणे प्रतिदिनमपि मम तद्रासभस्वरः स्मृतिपथमारोहति, तन्मूलमेवेदं रोदनमित्यवादीत्। तच्छ्रुत्वा स गायकः लज्जितः प्रभुमदृष्ट्वैव यथागतं जगाम। एवं स्वदोषमविज्ञाय प्रवृत्ताः स्वयमेवापमानिता भवन्ति।