॥ ॐ श्री गणपतये नमः ॥

राजमल्लयोः कथामण्डिकल् रामशास्त्री
वागाडम्बरवान् लोके न किञ्चित्कर्तुमर्हति।गर्जद्धना न वर्षन्ति न गर्जन्ति घनाघनाः॥

मलयाले कश्चिन्मल्लो विद्यतेस्म। सः मितविद्यतया कुत्रापि जीवनं सम्यगलभमानस्सन्मलयालदेशाधिपतेः सुन्दराभिधस्य समीपमाससाद। तत्र समयं निरीक्ष्य महाराजं प्रणिपत्य विज्ञापयति स्म। स्वामिन् खुरलीविद्यासमर्थोहं तव समीपे वस्तुमागतोस्मि, तव पुत्रान् खुरलीविद्यानिपुणान्कुर्याम्, महावीरान्मल्लान्शतमप्येकदैव जयेयं, पर्वतानपि शिरसा वहेयं, महाव्याघ्रानपि निगृह्णीयामिति। तच्छ्रुत्वा राजा सुतरां विसिष्मिये। तावदेव नगराध्यक्षस्समागत्य राजानं प्रणिपत्य महास्वामिन् नगरान्नातिदूरवर्तिनि पर्वते व्याघ्रादयो दुष्टसत्त्वास्समवेतास्सन्तः पौरान्बहुधा बाधन्ते, पौरास्तु अये महावनवत्पर्वतसमीपे इदं पुरं वर्तते, अत्र स्थित्या वयं निहता इति प्रतिगृहं क्रोशन्तीति विज्ञापयामास। राजा किञ्चिदालोच्य अयि मल्लाग्रेसर, त्वं पर्वतानपि वहेयमित्यवदः किल, इमं गिरिं शिरसा धृत्वा दूरं नेतुं शक्नोषि किमिति पप्रच्छ। समल्लस्तु अहो किञ्चित्कालपर्यन्तं सुखभोजनं प्राप्तुमुपायः प्राप्तस्तदनन्तरं यद्भावि तद्भवत्वित्यालोच्य स्वामिन्पर्वतद्वयमपि भुजाभ्यां धृतवतो मे जिह्वा एकं पर्वतं शिरसा वोढुं विज्ञापयितुं जिहेतीत्यकथयत्। राजा तु तर्हि त्वरस्खेत्युवाच। तच्छ्रुत्वा स पुनः प्रणम्य स्वामिन्बहुदिनारभ्यैतादृशकार्याभावात् मम तत्पाटवं किञ्चित्कुण्ठितमिवास्ते, तस्मादेकसंवत्सरपर्यन्तमवधिः प्रदीयते चेदनुरूपाहारादिना देहं दृढीकृत्यैतत्कार्य निर्वर्तयिष्यामीत्यकथयत्। तदाकर्ण्य स नृपतिस्तथैव भवत्वित्यङ्गीकृत्य तावत्पर्यन्तं तुभ्यं किं देयमित्यवादीत्। स तु प्रतिदिनमेकैकं निष्कं दीयते चेत्तदेवालमिति न्यवेदयत्। राजा तथैवादापयत्। स तदादि दिनेदिने मृष्टान्नादिकं भोजंभोजं मदगजायते स्म। ततस्संवत्सरे पूर्णे राजानं प्रति स्वामिन्नस्मिन्दिने गिरिं वहामि, तत्रभवद्भिस्सन्निहितैर्भवितव्यमित्याहस्म। राजा नितरां प्रहृष्य सपरिवारस्तं प्रदेशमगात्। तदैतद्वृत्तान्तं कर्णाकर्णिकया श्रुत्वा तद्दिदृक्षवः पौरा जानपदाः ग्रामीणाश्च समाजग्मुः। तावदयं परिकरं दृढं बध्वा भुजावास्फाल्य राजानं प्रति स्वामिन्नुर्वीधरं वोढुं सन्नद्धोस्मि, आज्ञाप्यन्तां सैनिकाः पर्वतमुद्धृत्य मच्छिरसि निधातुमित्याहस्म। तदा राजा विस्मित्य कथमिमे गिरिमुद्धर्तुं शक्नुयुः ? ईश्वरस्वतन्त्रः सन् स्वशक्त्या यथेच्छं करिष्यामि, तथाप्यहं मत्प्रतिज्ञानुरूपं शिरसा गिरिं वोढुं समर्थोस्मि तथाप्येतावद्भिरप्यनुद्धार्यमुत्क्षेप्तुं मम शक्तिरस्तिकिम् ? भवद्भिरेवालोच्यतामित्याहस्म। राजा लज्जितस्सन् गृहमगात्। तस्मादशक्यमपि साधयेयमिति वाक्पराक्रमशालिनां वचनं न विश्वसेत्।


संस्कृतकथासप्ततिः. 1914. p 49CC0. No rights reserved