कश्चिद्राजा निम्बबीजमानीय निजारामे शर्करया आलवालं कारयित्वा तस्मिस्तद्बीजमुप्त्वा यावत्तदङ्कुरीभूय प्रवर्धेत तावत् क्षीरैर्निषिञ्चन् ररक्ष। तत्प्रवृद्ध्यनन्तरं स वृक्षः पुष्पैः शलाटुकैश्शलाटुभिश्च पूर्णोभूत्। ते शलाटवः मधुरास्सन्तो वर्तेरन्निति मनसि चिन्तयन्नेकं शलाटुमानाय्य चखाद। स परं तिक्त एवासीत् न मधुरायतेस्म। तस्मात् एवं दुर्जनाः आबाल्यात् सत्सङ्गवन्तोपि स्वीयं दुर्गुणं न मुञ्चन्ति॥