महावीरो नाम गान्धारदेशाधिपतिरासीत्। स बहुधनव्ययं कृत्वा तालप्रमाणवारिवारणमेकयोजनायामं च तटाकमकल्पयत्। अतिवृष्ट्यां सत्यामपि तत्र जलानि नैवातिष्ठन्। तदा राजा नितान्तचिन्तया तान्तस्वान्तस्सन् तद्रोधस्यवतस्थे। तावदेरण्डनामा मुनिः प्रभुसमीपमेत्य सत्कृतस्सन् कुतश्चिन्तापरवश इव लक्ष्यसे इत्यपृच्छत्। नृपतिस्तस्मै नमस्कृत्य स्वामिन्नहमिमं तटाकं निरमापयं महावृष्ट्यामप्यत्र जलबिन्दुरपि नावतिष्ठते। तस्मादपकीर्तिभाजनमासमिति चिन्तयामीत्याहस्म। स मुनिः किञ्चिज्ज्ञात्वा अहो ज्ञातमेतत्कारणं साहसादिगुणशालिनो राजर्षेर्महर्षेर्वा कण्ठरक्तेन संस्पृष्टमन्नमवत्यदेवतायै बलीकरोषि चेत् पूर्यतेऽयं तटाक इत्यवदत्। ततः प्रभुस्समालोच्य अयमेव तादृश इति निश्चित्य खड्गेन तन्मुनिकण्ठमेव छित्त्वा बलिकर्म निर्वर्तयामास, अथ तटाकः पुपूरे, राजा पूर्णमनोरथोऽभूत्। तस्मात्प्रभवो जनैः स्वाबाधकं कालोचितं च बोधनीयाः। अन्यथा स्वहानिरेव स्यात्।