मधुरायां कश्चिद्धनवान्विप्रः वर्तते स्म। तस्य द्वौ पुत्रावास्तां। वृद्धः पिता केनापि व्याधिना कालधर्ममाप। सुतौ तद्रिक्थं विभज्य स्वंस्वं भागं भस्त्रिकासु सम्पूर्य लाक्षया सम्मुद्रय प्रतिवेशिन्याः कस्याश्चिज्जरठायाः वशे विन्यस्य उभावप्यावां यदा आगच्छेव, तदैतत्सर्वं देहीत्युक्त्वा गयादिपुण्यक्षेत्राण्युद्दिश्य प्रतस्थाते। अथ कनीयान्मार्गे कचिन्निद्रापरवशं भ्रातरमुत्सृज्य स्वपुरं प्राप्य आर्ये, मदग्रजं व्याघ्रश्वखाद, निर्गतिकोस्मि, हा भ्रातृहीनोस्मि, किं धनेन ? किं गृहेण; किमन्ततः प्राणैरिति तस्या अग्रे रुरोद। सा तं बहुधा समाश्वास्य धनं सर्वमपि प्रत्यर्प्य स्वस्थचित्तमकरोत्। सा ततस्तं समाश्वास्य स्वकन्यां दत्वा तद्गृहे गत्वा निवसति स्म। कतिपयदिनानन्तरं ज्येष्ठस्समागत्य आर्ये, मदवरजः क्व गतोवा न जाने, अन्विष्यान्विष्य व्यरंसिषमित्युक्त्वा तां धनमयाचत। चिन्तायमाणचित्ता सा त्वदवरजः कतिपयदिनेभ्यः पूर्वमागत्य भवान्व्याघ्रसादभूदित्युक्त्वा धनमखिलं प्रतिजगृहे खल्विति जगाद। तदा स ज्यायानतीव कुपितस्सन् इयं मामवञ्चयतेति प्राड्डिवाकाय व्यजिज्ञपत्। स तत्सर्वं विचार्य साध्वीयं वञ्चिताभूदिति निश्चित्य एवं व्यवस्थापयति स्म। द्वावप्यागत्य धनं ग्रहीष्यावइति खलु भवद्भयामुक्तं, इदानीमपि तथैवागत्य द्वाभ्यां एकदैव ग्रहीतव्यं धनमिति। ततस्स तूष्णीमनुजमन्वेष्टुं जगाम, सा वृद्धा हर्षेण स्वगृहमाजगाम। तस्मान्न्यायमार्गे चरतां जनानां न कदापि हानिर्भवति।