कस्याञ्चित्पल्यां कश्चित् शूद्रः कञ्चिच्छागं वानरं च पोषयन्नवर्तत। तस्य कदाचित्कार्यवशात् ग्रामान्तरं प्रति प्रयाणमजनि, तदा सः दध्यन्नपाथेयं गृहीत्वा तमजं वानरं च सहादाय प्रतस्थे। मार्गे कस्यचित्सरस्तीरतरोरधस्तात् तावाबध्य दन्तानाशोध्य गण्डूषयित्वा मुखं प्रक्षालयति स्म। तावत्स कपिस्समीपस्थं दध्यन्नमशेषं भक्षयित्वा करलग्नैर्दधिकणैः छागमुखमालिप्य दूरमवातिष्ठत। ततस्स वृषलस्समागत्य छागमुखमालोक्य अयमेव अस्मदन्नमखिलमभक्षयदिति कोपेन तं ताडयामास। तस्मादविमृश्यकारिणः स्वयमेवमन्याय्यमाचरन्ति।