॥ ॐ श्री गणपतये नमः ॥

शूद्रीनकुलयोः कथामण्डिकल् रामशास्त्री
योर्थतत्त्वमविज्ञाय क्रोधस्यैव वशं गतः।स तावत्तप्यते मूढो यावद्देहनिपातनम्॥

पल्माटिदेशे कश्चिच्छूद्रः कञ्चिन्नकुलं पोषयन्नविद्यत। स कदाचिङ्ग्रामान्तरप्रयाणेसति तं बभ्रुमात्मभार्यावशे समर्ण्य गृहान्निर्ययौ। अपरेद्युस्सा नारी स्वापत्यं दोलायां शाययित्वा तं नकुलं तन्निकटे निक्षिप्य जलाहरणार्थं तटाकं जगाम, तावत्कश्चित्सर्पस्तद्दोलासमीपमाययौ। तदा नकुलस्तमुरगं खण्डशश्छित्त्वा रक्तसिक्ताङ्गस्तामभिययौ। सा तं दृष्ट्वा अयं मच्छिशुमच्छिनदिति रुषा दण्डमादाय तं ताडयित्वा गतप्राणमकरोत्। ततस्स्वभवनमासाद्य दोलायां सुखशायिनं बालकं तमधोधः खंडशो निकृत्तमहिंचावलोकयामास। तदनु तं शिशुं रक्षिणं मुरगशत्रुं समहरमिति बहुधा शुशोच। तस्मात् क्रोधादविमृश्यकारिणां एवंविधानि व्यसनानि सम्भवन्ति।


संस्कृतकथासप्ततिः. 1914. p 19CC0. No rights reserved