॥ ॐ श्री गणपतये नमः ॥

शुकवानरकथामण्डिकल् रामशास्त्री
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः॥

कस्यचिन्महीरुहे महान्द्रुमयवृक्षो विद्यतेस्म तत्र बहवश्शुकाः नीडानि निर्माय निवसन्तिस्म। एवं स्थिते कदाचिन्महती वृष्टिरासीत्। तया बाधिताः केचित्प्लवगाः तत्तरुमूलमशिश्रयन्। तानुद्दीक्ष्य ते कीराः कृपया भो प्लवङ्गाः भवतां करपादनखदन्तादयस्सर्वेप्यवयवाः वर्तन्ते, तथाप्येकं वा कुलायमकृत्वा खिद्यध्वे, इतःपरं वा निवासान्सम्पादयतेत्यवोचन्, तच्छ्रुत्वा ते शाखामृगाः अस्मानेते उपहसन्तीति कुपितास्सन्तः वृष्ट्यां विरतायां तद्भूरुहमारुह्य तेषां कुलायान् तच्छिशूनप्युच्छिद्य अधः पातयामासुः। तस्मान्मूर्खाणां हितोपदेशोपि उपदेष्टुरपकारायैव भवति।


संस्कृतकथासप्ततिः. 1914. p 21CC0. No rights reserved