शेषाद्रेरुपत्यकायां चन्द्रगिरिनामकं नगरमस्ति किल, तत्र कृष्णराजो नाम श्रीमानवर्तत। तन्माता मरणकाले रसालफलमपेक्ष्य तदानयनसमकालमेवाम्रियत। स कृष्णराजस्वमातुस्सर्वाश्चोत्तरक्रियाः क्रमेण निर्वर्त्य ब्राह्मणानाहूय स्वामिनः, मज्जनन्याः रसालफले इच्छा अवर्तिष्ट, सा वाञ्छान सम्पूरिता मया, तदर्थं किङ्कर्तव्यमित्यपृच्छत्, विप्रास्त्वयमेव द्रव्यसम्पादनसमय इत्यालोच्य श्रीमन्, मृतानां यद्यदभीप्सितं ब्राह्मणमुखे होमेन तस्य तृप्तिर्भवतीति श्रूयते। तस्मात्सुवर्णफलानि कारयित्वा ब्राह्मणेभ्यो देहि, तव मातुस्तृप्तिस्स्यादिति बोधयामासुः। स तथैव कारयामास। ते ब्राह्मणाः सुवर्णफलान्यादाय स्वस्वगृहान् जिगमिषवः प्रमोदेन वीध्यां प्रतस्थिरे। तावत्तेन्नालरामकृष्णस्तदृष्ट्वा कृष्णराजसमीपात् क्षिप्रमागत्य स्वगृहद्वारे स्थित्वा वीध्यामागच्छतो ब्राह्मणान्मुहुर्मुहुः प्रणिपत्य स्वामिनः मन्मातुः श्राद्धदिनमिदम् अस्मिन् दिने मद्गृहमपि युष्मत्पादपांसुभिः पवित्रीकुरुतेति सविनयं प्रार्थयामास, तदा ते द्विजास्तद्गृहेपि किमपि लभ्येतेत्याशया तन्मन्दिराभ्यन्तरमविशन्। ततस्स कवाटं पिधायार्गलाभ्यां दृढीकृत्य तान्पङ्क्तिशः उपवेशयामास। अथान्यस्मिन् द्वारे कांश्चिदर्वीकाण्डानग्नौ सम्यक्प्रताप्य दक्षिणां ददाम्यायातेति तानेकैकमेवाहूय तप्तेन तेनैकैकेन दाहंदाहं विससर्ज। ते सर्वेपि प्रलपन्तो राज्ञे व्यजिज्ञपत्। स कृष्णराजस्तमाकार्य रे, किमेवमकरोरिति पप्रच्छ। रामकृष्णः प्रणिपत्य प्रभो, केनापि व्याधिना पीडिता मन्माता मरणकाले तप्तायसा दाहमपेक्ष्य अयस्तापनसमकालमेव ममार। तस्माद्ब्राह्मणवचनानुसारेण भवन्मातृप्रीत्यर्थं भवन्तः यथीनियमं तथा कृतवन्तः तथा तदर्थमहमपि तथैवाकरवमित्यवादीत्। राजा तद्वचनाद्विस्मित्य तान्समाधाय प्रेषयामास। एवं युक्तिशालिनः अनुचितकार्यं कृत्वाप्यनुकूलन्यायं परिकल्प्य स्वात्मानं मोचयन्ति।