॥ ॐ श्री गणपतये नमः ॥

तेन्नालरामकृष्णस्य रजकस्य च कथामण्डिकल् रामशास्त्री
उपायशाली मनुजो नापायविषयो भवेत्।एलामदन् भोजनादौ विषयोगेपि निर्भयः॥

तेन्नालरामकृष्णः कदाचिदच्युतराजसमीपे किञ्चिदनुचितं हास्यमाततान। राजा क्रुद्धस्सन् रामकृष्णस्य शिरो मदगजपदेन मर्दयतेति भटानवादीत्। ते तमादाय ग्रामाद्वहिर्विशालं चत्वरमासेदुः। तत्र खनित्रेण भूमिं खात्वा तस्मिन्गर्ते तमाकण्ठं निक्षिप्य मृदा पिधाय तत्पुरतो गजमानेतुं किञ्चिदूरं गतवत्सु एकः कुब्जो रजकस्तं देशमाययौ। स तं दृष्ट्वा कुतएवं निखातोसीति पप्रच्छ। रामकृष्णस्तु अये रजक, त्वमिवाहमपि वक्रतनुरभवं, कश्चिद्वैद्यः मां दृष्ट्वा मद्द्वपुषो वक्रतामपनेतुमिमां चिकित्सां कारयामास, एतदवटस्थेनानुकूलोष्मणा मत्तनुरिदानीमृज्वी बभूव, अहो मादृशेषु स भिषगेव निपुणः, इयं भूमिरेव चिकित्सितुमनुकूलोष्मवती, दैववशाद्विकृतदशायाः परिमुक्तोस्मि, मत्काये आर्जवमायातं वा न वा मामुद्धृत्य त्वमेव परीक्षस्खेत्यवादीत्। ततस्स एनमुद्धृत्य दृष्ट्वा स्वामिन्मामप्येवं कुर्विति प्रार्थयते स्म। तमेष तस्मिन्गर्ते कण्ठपर्यन्तं मृद्भिर्दृढं पिधाय तत्पटभारैस्सह राजसन्निधिमाययौ। राजा तमालोक्य कथं तान्वञ्चयित्वा समायातोसीत्यपृच्छत्। स तद्वृत्तान्तमखिलं यथाक्रमं विज्ञापितवान्। राजा तद्बुद्धिपाटवं श्रुत्वा विस्मित्य तस्य यथापुरं दयतेस्म। तं रजकं च मोचयामास, तस्मादेवं बुद्धिशालिनः अपायानप्युपायेन तरन्ति।


संस्कृतकथासप्ततिः. 1914. p 54CC0. No rights reserved