एकदा तेन्नालरामकृष्णः कृष्णराजसमीपे किमप्यनुचितं हास्यमतानीत्। तेन राजा कुपितस्सन् तच्छिरश्छिन्तमिति स्वसेवकावादिदेश। तौ तमादाय ग्रामाद्बहिश्चत्वरमगमताम्। ततो रामकृष्णस्तौ प्रति सविनयमाहस्म। हेभद्रौ, मम भाग्यविपर्ययादेवमभूत्, अस्तुनाम, मृतस्यापि मम यथासद्गतिर्भवेत्तथा भवद्भिरुपकारः कर्तव्यः, अहं तावदस्मिस्तटाके कण्ठपर्यन्तमवगाह्य मदिष्टदेवतां ध्यात्वा हुङ्करिष्यामि, तदनुपदमेव मत्कण्ठमुभावपि छिन्तं, एतावत्प्रार्थय इति। तद्वचनं तौ तथेत्यङ्गीचक्रतुः। ततस्सरामकृष्णस्तं तटाकमवगाह्य तयोर्मध्यस्थस्सन्नेव देवताध्यानमभिनीय हुङ्कृत्य जले ममज्ज। ततस्तौ सरभसमेकदैव प्रसारितखङ्गतया परस्परखङ्गाभ्यां निहतौ द्वावप्यम्रियेताम्। रामकृष्णस्तु राजानमेत्य स्वचातुर्यक्रममूचे। राजा विस्मित्य तस्मै प्रसन्नोऽभूत्। तस्मात् कुशलाः अपराध्याप्येवमात्मानं मोचयन्ति।