कस्मिश्चिदरण्ये कश्चिद्व्याघ्रोऽवर्तत। स तत्रत्यान् मृगानगणयन् बाधमान आसीत्। एवं स्थिते कस्मिश्चिद्दिने स व्याघ्रः एकमृषभमालोक्य तमुद्दिश्योत्पपात। तदा दैववशालक्ष्यात् स्खलित्वा पुरतः स्थिते अगाधे गर्ते पपात। पतितं तं शार्दूलमालोक्य मृगास्सर्वे सङ्घीभूय अस्मिन्काले एनं न संहरामो यदि एष पुनरस्मान् बाधेतैव, तस्मादिदानीमेवायं संहर्तव्यः इत्यालोच्य सर्वेप्येकैकं पाषाणमुद्धृत्य व्याघ्रस्योपर्यपातयन्। तैस्स गर्तः पुपूरे। स व्याघ्रस्तत्रैवाम्रियत। तस्मादतिबलवानपि बहुभिर्विरोधं न कुर्वीत॥